श्रीराधिकायाः प्रेमपूराभिधस्तोत्रम्
*श्रीराधिकायाः प्रेमपूराभिधस्तोत्रम्*
मधुमधुरनिशायां ज्योतिरुद्भासितायां
सितकुसुमसुवासाः कॢप्तकर्पूरभूषा ।
सुबलसखमुपेता दूतिकान्यस्तहस्ता
क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ १॥
स्मरगृहमविशन्ती वाम्यतो धाम गन्तुं
सरणिमनुसरन्ती तेन संरुद्ध्य तूर्णम् ।
बलसवलितकाक्वा लम्भितान्तःस्मिताक्षी
क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ २॥
मुदिररुचिरवक्षस्युन्नते माधवस्य
स्थिरचरवरविद्युद्वल्लिवन्मल्लितल्पे ।
ललितकनकयूथीमालिकावच्च भान्ती
क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ ३॥
स्मरविलसिततल्पे जल्पलीलामनल्पां
क्रमकृतिपरिहीनां बिभ्रती तेन सार्धम् ।
मिथ इव परिरम्भारम्भवृत्त्येकवर्ष्मा
क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ ४॥
प्रमदमदनयुद्धश्रान्तितः कान्तकृष्ण
प्रचुरसुखदवक्षःस्फारतल्पे स्वपन्ती ।
रसमुदितविशाखाजीविताब्धौ समृद्धा
क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ ५॥
अपि बत सुरतान्ते प्रौढिसौभाग्यदृप्य-
त्प्रणयधृतसुसख्योन्मादमत्तोरुगर्वैः ।
दरगदितमुकुन्दाकल्पिताकल्पतल्पा
क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ ६॥
स्मरदयितनिकुञ्जप्राङ्गणे व्यावहास्यां
व्रजनवयुवराजं वक्रिमाडम्बरेण ।
सदसि परिभवन्ती संस्तुतालीकुलेन
क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ ७॥
क्वचन च दरदोषाद्दैवतः कृष्णजाता-
त्सपदि विहितमाना मौनिनी तत्र तेन ।
प्रकटितपटुचाटुप्रार्थ्यमानप्रसादा
क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ ८॥
पितुरिह वृसभानोर्भाग्यभङ्गी बकारेः
प्रणयविपिनभृङ्गी सङ्गिनी तस्य देवी ।
निजगणकुमुदालेः कौमुदी हा कृपाब्धे
क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ ९॥
निरवधिगुणसिन्धो भद्रसेनादिबन्धो
निरुपमगुणवृन्दप्रेयसीवृन्दमौले ।
अतिकदनसमुद्रे मज्जतो हा कृपार्द्रे
क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ १०॥
नटयति रुचिनान्दीमुन्नयन्सूत्रधार
प्रवर इव रसज्ञानर्तकीं रङ्गरूपे ।
रसवति दशकेऽस्मिन्प्रेमपूराभिधे यः
स सपदि लभते तत्द्वन्द्वरत्नप्रसादम् ॥ ११॥
इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां
श्रीराधिकायाः प्रेमपूराभिधस्तोत्रं सम्पूर्णम् ।
Comments
Post a Comment