श्रीयमुनाष्टकम्
श्रीयमुनाष्टकम्
भ्रातुरन्तकस्य पत्तनेऽभिपत्तिहारिणी
प्रेक्षयातिपापिनोऽपि पापसिन्धुतारिणी ।
नीरमाधुरीभिरप्यशेषचित्तबन्धिनी
मां पुनातु सर्वदारविन्दबन्धुनन्दिनी ॥ १॥
हारिवारिधारयाभिमण्डितोरुखाण्डवा
पुण्डरीकमण्डलोद्यदण्डजालिताण्डवा ।
स्नानकामपामरोग्रपापसम्पदन्धिनी
मां पुनातु सर्वदारविन्दबन्धुनन्दिनी ॥ २॥
शीकराभिमृष्टजन्तुदुर्विपाकमर्दिनी
नन्दनन्दनान्तरङ्गभक्तिपूरवर्धिनी ।
तीरसङ्गमाभिलाषिमङ्गलानुबन्धिनी
मां पुनातु सर्वदारविन्दबन्धुनन्दिनी ॥ ३॥
द्वीपचक्रवालजुष्टसप्तसिन्धुभेदिनी
श्रीमुकुन्दनिर्मितोरुदिव्यकेलिवेदिनी ।
कान्तिकन्दलीभिरिन्द्रनीलवृन्दनिन्दिनी
मां पुनातु सर्वदारविन्दबन्धुनन्दिनी ॥ ४॥
माथुरेण मण्डलेन चारुणाभिमण्डिता
प्रेमनद्धवैष्णवाध्ववर्धनाय पण्डिता ।
ऊर्मिदोर्विलासपद्मनाभपादवन्दिनी
मां पुनातु सर्वदारविन्दबन्धुनन्दिनी ॥ ५॥
रम्यतीररम्भमाणगोकदम्बभूषिता
दिव्यगन्धभाक्कदम्बपुष्पराजिरूषिता ।
नन्दसूनुभक्तसङ्घसङ्गमाभिनन्दिनी
मां पुनातु सर्वदारविन्दबन्धुनन्दिनी ॥ ६॥
फुल्लपक्षमल्लिकाक्षहंसलक्षकूजिता
भक्तिविद्धदेवसिद्धकिन्नरालिपूजिता ।
तीरगन्धवाहगन्धजन्मबन्धरन्धिनी
मां पुनातु सर्वदारविन्दबन्धुनन्दिनी ॥ ७॥
चिद्विलासवारिपूरभूर्भुवःस्वरापिनी
कीर्तितापि दुर्मदोरुपापमर्मतापिनी ।
बल्लवेन्द्रनन्दनाङ्गरागभङ्गगन्धिनी
मां पुनातु सर्वदारविन्दबन्धुनन्दिनी ॥ ८॥
तुष्टबुद्धिरष्टकेन निर्मलोर्मिचेष्टितां
त्वामनेन भानुपुत्रि! सर्वदेववेष्टिताम् ।
यःस्तवीति वर्धयस्व सर्वपापमोचने
भक्तिपूरमस्य देवि! पुण्डरीकलोचने ॥ ९॥
इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीयमुनाष्टकं सम्पूर्णम् ।
Comments
Post a Comment