श्रीहरिकुसुमस्तवः
*श्रीहरिकुसुमस्तवः*
गतिगञ्जितमत्ततरद्विरदं
रदनिन्दितसुन्दरकुन्दमदम् ।
मदनार्बुदरूपमदघ्नरुचिं
रुचिरस्मितमञ्जरि मञ्जुमुखम् ॥ १॥
मुखरीकृतवेणुहृतप्रमदं
मदवल्गितलोचनतामरसम् ।
रसपूरविकासककेलिपरं
परमार्थपरायणलोकगतिम् ॥ २॥
गतिमण्डितयामुनतीरभुवं
भुवनेश्वरवन्दितचारुपदम् ।
पदकोज्ज्वलकोमलकण्ठरुचं
रुचकात्तविशेषकवल्गुतरम् ॥ ३॥
तरलप्रचलाकपरीतशिखं
शिखरीन्द्रधृति प्रतिपन्नभुजम् ।
भुजगेन्द्रफणाङ्गणरङ्गधरं
धरकन्दरखेलनलुब्धहृदम् ॥ ४॥
हृदयालुसुहृद्गणदत्तमहं
महनीयकथाकुलधूतकलिम् ।
कलिताखिलदुर्जयबाहुबलं
बलवल्लवशावकसन्निहितम् ॥ ५॥
हितसाधुसमीहितकल्पतरुं
तरुणीगणनूतनपुष्पशरम् ।
शरणागतरक्षणदक्षतमं
तमसाधुकुलोपलचण्डकरम् ॥ ६॥
करपद्ममिलत्कुसुमस्तवकं
बकदानवमत्तकरीन्द्रहरिम् ।
हरिणीगणहारकवेणुकलं
कलकण्ठरवोज्ज्वलकण्ठरणम् ॥ ७॥
रणखण्डितदुर्जनपुण्यजनं
जनमङ्गलकीर्तिलताप्रभवम् ।
भवसागरकुम्भजनामगुणं
गुणसङ्गविवर्जितभक्तगणम् ॥ ८॥
गणनातिगदिव्यगुणोल्लसितं
स्मितरश्मिसहोदरवक्त्रवरम् ।
वरदृप्तवृषासुरदारघनं
घनविभ्रमवेशविहारमयम् ॥ ९॥
मयपुत्रतमःक्षयपूर्णविधुं
विधुरीकृतदानवराजकुलम् ।
कुलनन्दनमत्र नमामि हरिम् ॥ १०॥
उरसि परिस्फुरदिन्दिरमिन्दिन्दिरमन्दिरश्रजोल्लसितम् ।
हरिमङ्गनातिमङ्गलमङ्गलसच्चन्दनं वन्दे ॥ ११॥
इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीहरिकुसुमस्तवः सम्पूर्णः ।
Comments
Post a Comment