श्रीललितोक्ततोटकाष्टकं

नयनेरितमानसभूविशिखः
     शिरसि प्रचलप्रचलाकशिखः ।
मुरलीध्वनिभिः सुरभीस्त्वरयन्
     पशुपीविरहव्यसनं तिरयन् ॥ १॥

परितो जननीपरितोषकरः
     सखि लम्पटयन्नखिलं भुवनम् ।
तरुणीहृदयं करुणी विदधत्
     तरलं सरले करलम्बिगुणः ॥ २॥

दिवसोपरमे परमोल्लसितः
     कलशस्तनि हे विलसद्धसितः ।
अतसीकुसुमं विहसन्महसा
     हरिणीकुलमाकुलयन् सहसा ॥ ३॥

प्रणयिप्रवणः सुभगश्रवण
     प्रचलन्मकरः ससखिप्रकरः ।
मदयन्नमरीर्भ्रमयन् भ्रमरी
     मिलितः कतिभिः शिखिनां तातभिः ॥ ४॥

अयमुज्ज्वलयन् व्रजभूसरणीं
     रमयन् क्रमणैर्मृदुभिर्धरणीम् ।
अजिरे मिलितः कलितप्रमदे
     हरिरुद्विजसे तदपि प्रमदे ॥ ५॥

वद मा परुषं हृदये न रुषं
     रचय त्वमतश्चल विभ्रमतः ।
उदिते मिहिकाकिरणे न हि का
     रभसादयि तं भजते दयितम् ॥ ६॥

कलय त्वरया विलसत्सिचयः
     प्रसरत्यभितो युवतीनिचयः ।
निदधाति हरिर्नयनं सरणौ
     तव विक्षिप सप्रणयं चरणौ ॥ ७॥

 इति तामुपदिश्य तदा स्वसखीं
     ललिता किल मानितया विमुखीम् ।
अनयत् प्रसभादिव यं जवतः
     कुरुतात् स हरिर्भविकं भवतः ॥ ८॥

इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीललितोक्ततोटकाष्टकं सम्पूर्णम् ।

Comments

Popular posts from this blog

Ishq ke saat mukaam इश्क के 7 मुक़ाम

श्रित कमला कुच मण्डल ऐ , तृषित

श्री राधा परिचय