सुरतकथामृतं
सुरतकथामृतं
मूलग्रन्थस्य केन्द्रीयश्लोकः-
कदाहं सेविष्ये व्रततिचमरीचामरमरु-
द्विनोदेन क्रीडा कुसुमशयने न्यस्तवपुषौ ।
दरोन्मीलन्नेत्रौ श्रमजलकणक्लिद्यदलकौ
ब्रुवाणावन्योन्यं व्रजनवयुवानाविह युवाम् ॥
उत्कलिकावल्लरी ५२
श्रीकृष्ण उवाच-
चित्रमिदं नहि यदहो वितरस्यधरसुधां निकामं मे ।
अति कृपणोऽपि कदाचिद्वदान्यतमतां जनः प्रिये धत्ते ॥ १॥
लयमपि न याति दाने प्रत्युत ऋद्धिं रसाधिकां लभते ।
अधरसुधोत्तमविद्यां विबुधवरायाद्य मे देहि ॥ २॥
स्वान्ते बिभ्रति भवतीं स्वान्ते वासिन्यतिस्निग्धे ।
मयि किमपूर्वां नादास्त्वमिमां च यस्माद्विदुष्यहो तत्र ॥ ३॥
श्रीराधाह-
कुलरमणीततिलज्जानिर्मूलनतन्त्रकौशलोद्गारैः ।
प्रथयसि किमु निजगर्वं ज्ञातं पाण्डित्यमस्ति ते तत्र ॥ ४॥
दैवाद्विपक्षतामपि मयि यान्त्या बत ममैव सहचर्या ।
न्यस्ताहं तव हस्ते कथमत्र गर्वो भवेन् न ते ॥ ५॥
अयमपि परमो धर्मः श्लाघा महती तवेयमेवेष्टा ।
यौवनफलमपि चेदं कुलाबलापीडनं यदहो ॥ ६॥
श्रीकृष्ण आह-
स्मरनरपतिवरराज्ये धर्मः शर्मप्रदोऽयमादिष्टः ।
वत्स्यायनमुनिनिर्मितपद्धत्युक्तानुसारेण हि ॥ ७॥
अपि च-
अत्र प्रमाणमिष्टं चेन्मदुक्तेऽपि न मन्यते किञ्चित् ।
भरतमुनेः किल शास्त्रं शास्त्रान्तरमत्र को गणयेत् ॥ ८॥
विद्युति विद्युतिदायी श्लाघां मनुते पयोधरः स्वीयाम् ।
विद्युदपि स्वां सुषमां पयोधरे श्लाघयत्यधिकाम् ॥ ९॥
श्रीराधाह-
गोवर्धनगिरिकन्दरवासी हरिरसीति श्रुतं कतिधा ।
कुलबालाहरिणीततिरथापि गच्छत्यतो न ते दोषः ॥ १०॥
किं कुर्मः स्वाचरितो धर्मस्त्यक्तुं कथं पुनः शक्यः ।
दिनकरपूजनविधिरिह कुसुमावचये प्रवर्त्यते ॥ ११॥
श्रीकृष्ण आह-
वृन्दारण्यपुरन्दरमपि मां न गिरापि कर्हिचिन्मनुषे ।
सूर्याराधनगर्वस्तदयं राधे न ते भवेत्खर्वः ॥ १२॥
गोवर्धनगिरिधारणकारणमोजो न तेऽधिकं मनुते ।
तव सवयस्ततिरपि स तवैककुचशैलगर्वेण ॥ १३॥
श्रीराधाह-
न किल कुचौ मम शैलौ पश्याम्बुजकोरकौ नवोत्पन्नौ ।
न तयोर्दलनं मरकतशिलानिभेनोरसाऽद्य ते योग्यम् ॥ १४॥
कौस्तुभमणिरतितरलः सरलमतिः पुनरहं कुल प्रमदा ।
तदलमनेन धिनोतु त्वां निजसदृशं भृशं हृदिस्थस्ते ॥ १५॥
श्रीकृष्ण आह-
सत्यमयं भयतरलः कण्ठतटान्तं मम प्रिये श्रयते ।
दयते तव कुचद्वयमधिकं सम्मर्दयत्यहो सद्यः ॥ १६॥
श्रीराधाह-
तव खरनखरविदारणसहनं कुचयोरियं वरा शक्तिः ।
किमत्र सम्भवति स्फुटमनयोः स्वबलप्रकाशनाटोपः ॥ १७॥
श्रीकृष्ण आह-
मम खरनखरमहाङ्कुशघातादपि शतगुणं बलं लब्ध्वा ।
कोलादिव कुच कुम्भौ ममार्दयतो भृशं प्रिये पश्य ॥ १८॥
श्रीराधाह-
कुचपद्मकुट्मलयुगं मर्दयति त्वां निजातिदौरात्म्यात् ।
वृन्दावनवरसिन्धुर ननु दयसे त्वं निसर्गकारुण्यात् ॥ १९॥
श्रीकृष्ण आह-
तन्वाते मुदमुच्चैस्तावककुचकोरकौ यदिमौ ।
नखचन्द्रोदयमधि किं स्वयोग्यमतुलं न शोभते प्रिये ॥ २०॥
श्रीराधाह-
नखरानामतिखरतारताय ते तावकेन किल विधिना ।
व्रजवनितानामरुच्य रुषेव निरमायि किं नूनम् ॥ २१॥
श्रीकृष्ण आह-
कुसुमादपि मृदुलाङ्ग्याः कुचयोरेवास्ति हन्त काठिन्यम् ।
इति तन् निष्काशयितुं क्षुणत्ति नखरावली चतुरा ॥ २२॥
श्रीराधाह-
हन्त कृतं बत किमिदं सुरतरसोन्मदकुलस्त्रियाः कदनम् ।
हारास्त्रुटिताः काञ्ची गलिता स्खलिता तथैव मे वेणी ॥ २३॥
श्रीकृष्ण आह-
हारा बलादुरुभाराः कृशमपि मध्यं च नह्यते काञ्ची ।
चिकुरकदर्थनभूता वेणी तदिमा रक्षितुं न योग्याः ॥ २४॥
श्रीराधाह-
ऊधो येन गिरीन्द्रस्तमपि न वहतो ममोरसो भारः ।
हारैर्भूषणभूतैरभूदियं स्नेहमुद्रा किम् ॥ २५॥
कुचगिरिवहनपटुत्वं कृशमपि मध्यं यतो बलाद्धत्ते ।
मणिमयकाञ्चीबन्धादेव तमृते दृढताऽस्य केन स्यात् ॥ २६॥
उत्कर्षणावाकर्षणपर्यायोदितपरस्परासक्त्या ।
प्रीतिरियं किल वेणीचिकुराणां न च कदर्थनं वाच्यम् ॥ २७॥
श्रीकृष्ण आह-
सत्यमहं गिरिधारी करनलिनाभ्यां गिरिद्वयं धास्ये ।
मध्यस्यात्र पटुत्वैरलं बलं किल ममैवास्ताम् ॥ २८॥
चिकुराणामपि वेण्याः परस्परासक्तिः सूचिता ।
प्रीत्या किं फलमिह यदि परिचरणं ते न कुर्वन्ति ॥ २९॥
वेणीबन्धविमुक्तश्चिकुर कलापोऽत्र वेल्लितो मरुता ।
चामरतामुपयातः स्विन्नाङ्गीं वीजयत्यहो भवतीम् ॥ ३०॥
श्रीराधाह-
आविस्कृत पुरु शिल्पं सख्या मे बहु विलम्बतो रचितम् ।
चित्रकमलिकतटे तत्क्षणेन विध्वंसितं भवता ॥ ३१॥
श्रीकृष्ण आह-
स्मितमुखि रुचार्धविधुना सुचारुभालेन मे मिलन्त्येषा ।
त्वदलिकविधुरेखाऽस्मै प्रेम्नाऽर्पयति स्म सर्वस्वम् ॥ ३२॥
श्रीराधाह-
गण्डतटे मम मकरी श्यामा सरलातिचित्रिताप्यबलाम् ।
मकरद्वयताटङ्कश्चपलो धृष्टः कदर्थयत्येनाम् ॥ ३३॥
श्रीकृष्ण आह-
रमणि मम श्रुतियुगलं त्वदुदितसौधद्रवैः प्लुतं तदपि ।
द्विगुणिततृष्णं जातं लोलुपतायाः स्वरूपमेवैतत् ॥ ३४॥
श्रीराधाह-
लोलुपचूडामणिरसि तवाङ्गवृन्दं च लोलुपं यदयम् ।
मन्नयनाक्तमसीमप्यधरो रागी स्व मण्डनं कुरुते ॥ ३५॥
Comments
Post a Comment